संस्कृतभाषाया: हाड़ौतीभाषायाम् प्रभावः
भारतदेशे विविधाः जनभाषाः वर्तन्ते। तासु हाड़ौतीभाषा अपि प्रमुखा एव अस्ति। हाड़ौतीभाषा राजस्थानराज्यस्य दक्षिणपूर्वे विद्यमाना एका प्रमुखा अपभ्रंशोत्पन्ना प्रादेशिकभाषा अस्ति। एषा भाषा मुख्यतः कोटा, बूंदी, झालावाड़, बारां इत्यादिषु जनपदेषु प्रयुज्यते।हाड़ौतीभाषा राजस्थानीभाषायाः…